Stotra · Shitala

Shri Shitala Kavacham

शीतला कवचम्

पार्वत्युवाच

भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद।

शीतलाकवचं ब्रूहि सर्वभूतोपकारकम्॥

वद शीघ्रं महादेव! कृपां कुरु ममोपरि।

इति देव्याः वचो श्रुत्वा क्षणं ध्यात्वा महेश्वरः॥

उवाच वचनं प्रीत्या तत्श‍ृणुष्व मम प्रिये।

शीतलाकवचं दिव्यं श‍ृणु मत्प्राणवल्लभे॥

ईश्वर उवाच

शीतलासारसर्वस्वं कवचं मन्त्रगर्भितम्।

कवचं विना जपेत् यो वै नैव सिद्धयन्ति कलौ॥

धारणादस्य मन्त्रस्य

सर्वरक्षाकरनृणाम्।

विनियोग

कवचस्यास्य देवेशि! ऋषिर्पोक्तो महेश्वरः।

छन्दोऽनुष्टुप् कथितं च देवता शीतला स्मृता।

लक्ष्मीबीजं रमा शक्तिः तारं कीलकमीरितम्॥

लूताविस्फोटकादीनि शान्त्यर्थे परिकीर्तितः।

विनियोगः प्रकुर्वीत पठेदेकाग्रमानसः॥

विनियोग

ॐ अस्य शीतलाकवचस्य श्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः,

श्रीशीतला भगवती देवता, श्रीं बीजं, ह्रीं शक्तिः,

ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगः॥

ऋष्यादिन्यास

श्रीमहेश्वरऋषये नमः शिरसि अनुष्टुप् छन्दसे नमः मुखे,

श्रीशीतला भगवती देवतायै नमः हृदि श्री बीजाय नमः गुह्ये

ह्रीं शक्तये नमः नाभौ, ॐ कीलकाय नमः पादयो

लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे॥

ध्यानम्

उद्यत्सूर्यनिभां नवेन्दुमुकुटां सूर्याग्निनेत्रोज्ज्वलां

नानागन्धविलेपनां मृदुतनुं दिव्याम्बरालङ्कृताम्।

दोर्भ्यां सन्दधतीं वराभययुगं वाहे स्थितां रासभे

भक्ताभीष्टफलप्रदां भगवतीं श्रीशीतलां त्वां भजे॥

ॐ शीतला पातु मे प्राणे रुनुकी पातु चापाने।

समाने झुनुकी पातु उदाने पातु मन्दला॥

व्याने च सेढला पातु मनुर्मे शाङ्करी तथा।

पातु मामिन्द्रियान् सर्वान् श्रीदुर्गा विन्ध्यवासिनी॥

ॐ मम पातु शिरो दुर्गा कमला पातु मस्तकम्।

ह्रीं मे पातु भ्रुवोर्मध्ये भवानी भुवनेश्वरी॥

पातु मे मधुमती देवी ॐकारं भृकुटीद्वयम्॥

नासिकां शारदा पातु तमसा वर्त्मसंयुतम्।

नेत्रौ ज्वालामुखी पातु भीषणा पातु श्रुतिर्मे॥

कपोलौ कालिका पातु सुमुखी पातु चोष्ठयोः।

सन्ध्ययोः त्रिपुरा पातु दन्ते च रक्तदन्तिका॥

जिह्वां सरस्वती पातु तालुके व वाग्वादिनी।

कण्ठे पातु तु मातङ्गी ग्रीवायां भद्रकालिका॥

स्कन्धौ च पातु मे छिन्ना ककुमे स्कन्दमातरः।

बाहुयुग्मौ च मे पातु श्रीदेवी बगलामुखी॥

करौ मे भैरवी पातु पृष्ठे पातु धनुर्धरी।

वक्षःस्थले च मे पातु दुर्गा महिषमर्दिनी॥

हृदये ललिता पातु कुक्षौ पातु मघेश्वरी।

पार्ष्वौ च गिरिजा पातु चान्नपूर्णा तु चोदरम्॥

नाभिं नारायणी पातु कटिं मे सर्वमङ्गला।

जङ्घयोर्मे सदा पातु देवी कात्यायनी पुरा॥

ब्रह्माणी शिश्नं पातु वृषणं पातु कपालिनी।

गुह्यं गुह्येश्वरी पातु जानुनोर्जगदीश्वरी॥

पातु गुल्फौ तु कौमारी पादपृष्ठं तु वैष्णवी।

वाराही पातु पादाग्रे ऐन्द्राणी सर्वमर्मसु॥

मार्गे रक्षतु चामुण्डा वने तु वनवासिनी।

जले च विजया रक्षेत् वह्नौ मे चापराजिता॥

रणे क्षेमकरी रक्षेत् सर्वत्र सर्वमङ्गला।

भवानी पातु बन्धून् मे भार्या रक्षतु चाम्बिका॥

पुत्रान् रक्षतु माहेन्द्री कन्यकां पातु शाम्भवी।

गृहेषु सर्वकल्याणी पातु नित्यं महेश्वरी॥

पूर्वे कादम्बरी पातु वह्नौ शुक्लेश्वरी तथा।

दक्षिणे करालिनी पातु प्रेतारुढा तु नैरृते॥

पाशहस्ता पश्चिमे पातु वायव्ये मृगवाहिनी।

पातु मे चोत्तरे देवी यक्षिणी सिंहवाहिनी।

ईशाने शूलिनी पातु ऊर्ध्वे च खगगामिनी॥

अधस्तात्वैष्णवी पातु सर्वत्र नारसिंहिका।

प्रभाते सुन्दरी पातु मध्याह्ने जगदम्बिका॥

सायाह्ने चण्डिका पातु निशीथेऽत्र निशाचरी।

निशान्ते खेचरी पातु सर्वदा दिव्ययोगिनी॥

वायौ मां पातु वेताली वाहने वज्रधारिणी।

सिंहा सिंहासने पातु शय्यां च भगमालिनी॥

सर्वरोगेषु मां पातु कालरात्रिस्वरुपिणी।

यक्षेभ्यो यक्षिणी पातु राक्षसे डाकिनी तथा॥

भूतप्रेतपिशाचेभ्यो हाकिनी पातु मां सदा।

मन्त्रं मन्त्राभिचारेषु शाकिनी पातु मां सदा॥

सर्वत्र सर्वदा पातु श्रीदेवी गिरिजात्मजा।

इत्येतत्कथितं गुह्यं शीतलाकवचमुत्तमम्॥

ब्रह्मराक्षसवेतालाः कूष्माण्डा दानवादयः।

विस्फोटकभयं नास्ति पठनाद्धारणाद्यदि॥

अष्टसिद्धिप्रदं नित्यं धारणात्कवचस्य तु।

सहस्त्रपठनात्सिद्धिः सर्वकार्यार्थसिद्धिदम्॥

तदर्धं वा तदर्धं वा पठेदेकाग्रमानसः।

अश्वमेधसहस्रस्य फलमाप्नोति मानवः॥

शीतलाग्रे पठेद्यो वै देवीभक्तैकमानसः।

शीतला रक्षयेन्नित्यं भयं क्वापि न जायते॥

घटे वा स्थापयेद्देवी दीपं प्रज्वाल्य यत्नतः।

पूजयेत्जगतां धात्री नाना गन्धोपहारकैः॥

अदीक्षिताय नो दद्यात कुचैलाय दुरात्मने।

अन्यशिष्याय दुष्टाय निन्दकाय दुरार्थिने॥

न दद्यादिदं वर्म तु प्रमत्तालापशालिने।

दीक्षिताय कुलीनाय गुरुभक्तिरताय च॥

शान्ताय कुलशाक्ताय शान्ताय कुलकौलिने।

दातव्यं तस्य देवेशि! कुलवागीश्वरो भवेत्॥

इदं रहस्यं परमं शीतलाकवचमुत्तमम्।

गोप्यं गुह्यतमं दिव्यं गोपनीयं स्वयोनिवत्॥

इति श्रीईश्वरपार्वतीसम्वादे शक्तियामले शीतलाकवचं सम्पूर्णम्

A Hinglish reading of this text has not been added yet.

More for Shitala